यदि आप ब्लॉग पर लेख आदि लिखना चाहते हैं, तो कृपया पहले अकादमी की सदस्यता ग्रहण करें. सदस्यता ग्रहण करने के लिए यहाँ पर क्लिक करें

वेदवाणी

    यजुर्वेद में ग्रहों से सम्बन्धित ऋचाएं - क्रमशः -1 

    सूर्य- ॐ आ कृष्णेन रजसा वर्तमानो निवेशयन्नमृतं मर्त्यं च। हिरण्ययेन सविता रथेना देवो याति भुवनानि पश्यन् (यजु. 33। 43, 34। 31) 

    चन्द्र- ॐ इमं देवा असपत्नं सुवध्यं महते क्षत्राय महते ज्यैष्ठ्याय महते जानराज्यायेन्द्रस्येन्द्रियाय। इमममुष्य पुत्रममुष्ये पुत्रमस्यै विश एष वोऽमी राजा सोमोऽस्माकं ब्राह्मणानां राजा।।
    (यजु. 10। 18)

    भौम- ॐ अग्निमूर्धा दिव: ककुत्पति: पृथिव्या अयम्। अपां रेतां सि जिन्वति।। (यजु. 3।12) 

    बुध- ॐ उद्बुध्यस्वाग्ने प्रति जागृहि त्वमिष्टापूर्ते सं सृजेधामयं च। अस्मिन्त्सधस्‍थे अध्‍युत्तरस्मिन् विश्वे देवा यशमानश्च सीदत।। (यजु. 15।54) 

     गुरु- ॐ बृहस्पते अति यदर्यो अर्हाद् द्युमद्विभाति क्रतुमज्जनेषु। यद्दीदयच्छवस ऋतुप्रजात तदस्मासु द्रविणं धेहि चित्रम्।। (यजु. 26।3)

    शुक्र- ॐ अन्नात्परिस्त्रुतो रसं ब्रह्मणा व्यपित्क्षत्रं पय: सोमं प्रजापति:। ऋतेन सत्यमिन्द्रियं विपानं शुक्रमन्धस इन्द्रस्येन्द्रियमिदं पयोऽमृतं मधु।। (यजु. 19।75) 

    शनि- ॐ शं नो देवीरभिष्टय आपो भवन्तु पीतये। शं योरभि स्त्रवन्तु न:।। (यजु. 36।12) 

    राहु- ॐ कया नश्चित्र आ भुवदूती सदावृध: सखा। कया शचिष्ठया वृता।। (यजु. 36।4)

    केतु- ॐ केतुं कृण्वन्नकेतवे पेशो मर्या अपेशसे। समुषद्भिरजायथा:।। (यजु. 29।37)

उपनिषद् - धारा

    ईशावास्योपनिषद् (मन्त्र-अनुवाद )-----1 (क्रमशः)

    (ईशावास्योपनिषद् शुक्लयजुर्वेदकाण्वसंहिता का ४०वां अध्याय है.  )

    ॐ पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते I

    पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते I I 1 I I

    ॐ शान्तिः शान्तिः शान्तिः

    = सच्चिदानन्दघन, अदः = वह परब्रह्म, पूर्णम् = सब प्रकार से पूर्ण हैं, इदम् = यह जगत् भी, पूर्णम् = पूर्ण (ही) है, (क्योंकि) पूर्णात् = पूर्ण से (परब्रह्म) से ही, पूर्णम् = यह पूर्ण, उदच्यते = उत्पन्न हुआ है, पूर्णस्य = पूर्ण के (से), पूर्णम् = पूर्ण को, आदाय = निकाल लेने पर (भी), पूर्णम् = पूर्ण, एव = ही, अवशिष्यते = बचता है.

    अर्थात् सच्चिदानन्दघन परब्रह्म परमेश्वर पुरुषोत्तम सब प्रकार से सदा-सर्वदा परिपूर्ण है. यह जगत् भी उस परब्रह्म से परिपूर्ण है क्योंकि यह पूर्ण उस पूर्ण पुरुषोत्तम से ही उत्पन्न हुआ है. इस प्रकार परब्रह्म की पूर्णता से जगत् पूर्ण है. इसलिए भी वह परिपूर्ण है. उस पूर्ण ब्रह्म से पूर्ण को निकाल देने पर भी वह पूर्ण ही बच रहता है.

    त्रिविध ताप की शान्ति हो. ( ताप या दुःख तीन प्रकार के होते है - आधिदैविक, आधिभौतिक और आध्यात्मिक )

    साभार - ईशादि नौ उपनिषद - गीता प्रेस            

सुभाषितम्

    पुष्पे गन्धं तिले तैलं काष्ठेऽग्निं पयसि घृतम्।
    इक्षौ गुडं तथा देहे पश्याऽत्मानं विवेकत: ॥

     अर्थात् जैसे पुष्प मे गन्ध, तिल मे तैल, काष्ठ मे अग्नि, दूध मे घी और ईख मे गुड होता है वैसे शरीर मे परमात्मा विद्यमान है, विवेक द्वारा आत्मा परमात्मा का साक्षात्कार करना चाहिये ।

    पात्रे त्यागी गुणे रागी संविभागी च बन्धुषु।
    शास्त्रे बोद्धा रणे योद्धा स वै पुरुष पञ्चलक्षणः उच्चते।।

    अर्थात् जो उचित पात्र के लिए त्याग करता है, दूसरों के गुणों को स्वीकार करता है, अपने सुख-दुःख को बन्धु-बान्धव के साथ बाँटता है, शास्त्रों से ज्ञान ग्रहण करता है, युद्ध में वीरता का प्रदर्शन करता है, उसे ही सच्चे अर्थ में पुरुष कहा जाता है।

    विपदि धैर्यमथाभ्युदये क्षमा सदसि वाक्पटुता युधि विक्रमः।
    यशसि चाभिरुचिर्व्यसनं श्रुतौ प्रकृतिसिद्धमिदं हि महात्मनाम्।।

    अर्थात् विपत्तिकाल में धैर्य धारण करना और समृद्धिकाल में क्षमाशीलता, सभा में वचन नैपुण्य, युद्धभूमि में शौर्य, यश प्राप्ति में विशेष रूचि और वेदाध्ययन कार्य में विशेष आसक्ति निश्चयपूर्वक ये उपर्युक्त सभी बातें महापुरुषों में स्वभाव से ही सिद्ध होती हैं।

    सौजन्य से - श्री कुलदीप पुरोहित (गुजरात)

    नैवाकृतिः फलति नैव कुलं न शीलं,

    विद्यापि नैव न च यत्नकृतापि सेवा।

    भाग्यानि पूर्वतपसा किल सञ्चितानि,

    काले फलन्ति पुरुषस्य यथैव वृक्षाः।।

    अन्वयः -

    आकृतिः न फलति एव । कुलं न (फलति) एव । शीलं न (फलति एव) । विद्या अपि न (फलति) एव । यत्नकृता सेवा अपि च न (फलति एव) । यथा वृक्षाः काले फलन्ति (तथा एव) पुरुषस्य पूर्वतपसा सञ्चितानि भाग्यानि (काले फलन्ति)।

     भावानुवादः -

    --आकृतिः,कुलं,शीलं,विद्या वा यत्नकृता सेवा-  सर्वाणि एतानि न फलीभूतानि भवन्ति। किन्तु यथा वृक्षः योग्यकाले  फलानि ददाति तथैव पूर्वतपसा सञ्चितानि  कर्माणि योग्यकाले एव पुरुषाय फलं ददाति।

    हिन्दी अनुवादः -

    --आकृति, कुल, चारित्र, विद्या या यत्नपूर्वक की गई सेवा- इनमें से कुछ भी तत्काल फलीभूत होता नही है ; लेकिन जैसे वृक्ष समय आने पर ही फल देते है, वैसे ही पूर्व में किए गए तप से सञ्चित हुए कर्म समय पर मनुष्य को फल देते है।

महर्षि-पतञ्जलिः - परिचय:

  • सङ्कलितम्

 महर्षि-पतञ्जलिः -

महर्षि पतञ्जलिः महान् पुरुषः आसीत् । तस्य ख्यातिः "महाभाष्यम्" इति ग्रन्थस्य कारणात् विश्वविज्ञाता । पतञ्जलिकृतं महाभाष्यम् इति "पातञ्जल-महाभाष्यम्" । वैयाकरणः महर्षिः पाणिनिः अद्वितीयः व्याकरणकर्त्ता आसीत् । तस्य व्याकरणग्रन्थस्य नाम ‘अष्टाध्यायी’ अस्ति । विश्वस्य सर्वासु भाषासु ये विद्वांसः भाषाविज्ञानिनः सन्ति ते सर्वे कथयन्ति स्वीकुर्वन्ति च यत् "अष्टाध्यायी" विश्वस्य सर्वश्रेष्ठः व्याकरण-ग्रन्थः। अयं ग्रन्थः सूत्रबद्धः अस्ति, अतः एतेषां सूत्राणां भाष्यस्य विश्लेषणम् आवश्यकम् । तदा एव एषः ग्रन्थः बोधगम्यः भवितुम् अर्हति । महर्षिः पतञ्जलिः "व्याकरण-महाभाष्यम्" इति नाम्ना महद्ग्रन्थम् अलिखत् । महर्षिः पतञ्जलिः चिदम्बरप्रदेशे गोणिकागृहे जातः । अऩ्ये केचित् विद्वांसः कथयन्ति यत् तस्य जन्मभूमिः पाटलिपुत्रः अस्ति । अत्र चिदम्बरप्रदेशे गोणिका पुत्रप्राप्त्यर्थं नित्यं प्रार्थयामास । नदी-नौ-संयोगः जातः । एकदा सा सती-साध्वी नारी गोणिका नद्यां स्नानं कृत्वा सूर्याय अर्घ्यं प्रददौ । अर्घ्य-सम्प्रदान-काले एकवारं बद्धाञ्जलिमध्ये एकः सर्पः आगतः । गोणिका कम्पमाना वेपथुमती च जाता, किन्तु धैर्यं धृत्वा प्रश्नं पप्रच्छ ।

गोणिका---को भवान् ?

शेषनागः---सप्पोSहम् ।

गोणिका---रेफः क्व गतः ?

शेषनागः----त्वया अपहृतः । (तव मुखे) ।

तस्मिन् एव काले गृहे गोणिका एकं पुत्रं जनितवती । गोणिका इमं पुत्रं पतञ्जलिः इति सम्बोधितवती । एषा तु जनश्रुतिः । महर्षिः पतञ्जलिः बाल्यकालात् एव विचक्षणः , अनुपम-प्रतिभा-सम्पन्नः आसीत् । अल्पसमये एव सः व्याकरणशास्त्रे पारङ्गतः, उत्तीर्णः,  स्नातकः,  तीर्थात्तीर्थंगतः। सहस्रशः व्याकरणजिज्ञासवः तस्य सन्निकटे सश्रद्धम् आगच्छन्ति स्म। समयं समालोक्य स भाष्यरचनां कर्तुम् प्रवृत्तः । सर्वे छात्राः , विद्यार्थिनः, विद्याध्यायिनः विजिज्ञासवः सर्वे समुपस्थिताः । महर्षिः पतञ्जलिः घोषितवान् - अहं भाष्यम् करिष्यामि । किन्तु अहम् जवनिका-पटान्तरितः भाष्यं करिष्यामि । भवन्तः दत्तकर्णाः सावधानम् एकाग्रचित्तं शृण्वन्तु, , लिखन्तु, स्मरन्तु च । पाणिनिसूत्रव्याख्यानकाले कोSपि छात्रः मां द्रष्टुं न आगच्छेत् । अन्यथा अनिष्टं भविष्यति । इति उक्त्वा पतञ्जलिः यवनिकान्तरितः व्याख्यानं भाष्यं च आरब्धवान् । प्रायः महाभाष्यसमाप्तिकाले एकः शिष्यः उत्सुकतावशात् तम् अद्राक्षीत्, तदा तस्य रूपं शेषनागवत् आसीत् । पतञ्जलिः शेषनागवत् ब्रुवन् आसीत् । यथातथा महाभाष्यं पूर्णम् अभूत् । चन्द्रगुप्त इति नाम्ना ख्यातः शिष्यः बहुदुःखतः पातञ्जलं महाभाष्यं संरक्षितवान् । महर्षिः पतञ्जलिः वैयाकरणः, चिकित्सकः, योगी चासीत् । "पातञ्जलयोगदर्शनम्" इति ग्रन्थः तेन रचितः सुप्रसिद्धः योगदर्शनग्रन्थः । पतञ्जलिः पृथिवीतले एकवारम् एव अवतरति, द्विवारं नहि । उक्तञ्च----

"योगेन चित्तस्य पदेन वाचाम्,

मलं शरीरस्य च वैद्यकेन ।

योSपाकरोत्तं प्रवरं मुनीनाम्,

पतञ्जलिं प्राञ्जलिरानतोSस्मि ।।

टिप्पणियाँ :
टिप्पणी करें :